के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः। अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि॑न्त्सु॒म्नानि॒ यज॑मान॒ आ च॑के॥
ketuṁ yajñānāṁ vidathasya sādhanaṁ viprāso agnim mahayanta cittibhiḥ | apāṁsi yasminn adhi saṁdadhur giras tasmin sumnāni yajamāna ā cake ||
के॒तुम्। य॒ज्ञाना॑म्। वि॒दथ॑स्य। साध॑नम्। विप्रा॑सः। अ॒ग्निम्। म॒ह॒य॒न्त॒। चित्ति॑ऽभिः। अपां॑सि। यस्मि॑न्। अधि॑। स॒म्ऽद॒धुः। गिरः॑। तस्मि॑न्। सु॒म्नानि॑। यज॑मानः। आ। च॒के॒॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
विप्रासो यस्मिन् गिरोऽपांसि च चित्तिभिरग्निमिवाधिसन्दधुर्यस्मिन् यज्ञानां केतुं विदथस्य साधनं महयन्त सुम्नानि सन्दधुर्यस्मिन्यजमानः सुम्नान्या चके तस्मिन्सर्वे मनुष्याः सुखानि सन्दध्युः ॥३॥